(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

Mahabharata - Drona Parva


॥ श्रीः ॥
7.79. अध्यायः 079
Mahabharata - Drona Parva - Chapter Topics
श्रीकृष्णेन रात्रावर्जुनेन त्र्यम्बकाय बलिप्रदापनम्॥ 1 ॥ कृष्णदारुकसम्भाषणम्॥ 2 ॥


Mahabharata - Drona Parva - Chapter Text

सञ्जय उवाच। 7-79-0x(4465)(47662)
ततोऽर्जुनस्य भवनं प्रविश्याप्रतिमं विभुः।
स्पृष्ट्वाम्भः पुण्डरीकाक्षः स्थण्डिले शुभलक्षणे।
सन्तस्तार शुभां शय्यां दर्भैर्वैदूर्यसन्निभैः॥ 7-79-1(47663)
ततो माल्येन विधिवल्लाजैर्गन्धैः सुमङ्गलैः।
अलञ्चकार तां शय्यां परिवार्यायुधोत्तमैः॥ 7-79-2(47664)
ततः स्पृष्टोदकं पार्थं विनीतपरिचारकम्।
नैत्यकं दर्शयाञ्चक्रे नैशं त्रैयम्बकं बलिम्॥ 7-79-3(47665)
ततः प्रीतमनाः पार्थो गन्धमाल्यैश्च माधवम्।
अलङ्कृत्योपहारं तं नैशं तस्मै न्यवेदयत्॥ 7-79-4(47666)
साधुसाध्विति गोविन्दः फल्गुनं प्रत्यभाषत॥ 7-79-5(47667)
सुप्यतां पार्थ भद्रं ते कल्याणाय व्रजाम्यहम्।
स्थापयित्वा ततो द्वास्थान्गोप्तॄंश्चात्तायुधान्नरान्॥ 7-79-6(47668)
दारुकानुगतः श्रीमान्विवेश शिबिरं स्वकम्।
शिश्ये च शयने शुभ्रे बहुकृत्य विचिन्तयन्॥ 7-79-7(47669)
पार्थाय सर्वं भगवाञ्शोकदुःखापहं विधिम्।
व्यदधात्पुण्डरीकाक्षस्तेजोद्युतिविवर्धनम्॥ 7-79-8(47670)
योगमास्थाय युक्तात्मा सर्वेषामीश्वरेश्वरः।
श्रेयस्कामः पृथुयशा विष्णुर्जिष्णुप्रियङ्करः॥ 7-79-9(47671)
न पाण्डवानां शिबिरे कश्चित्सुष्वाप तां निशाम्।
प्रजागरः सर्वजनं ह्याविवेश विशाम्पते॥ 7-79-10(47672)
पुत्रशोकाभितप्तेन प्रतिज्ञातो महात्मना।
श्वः सिन्धुराजस्य वधः कार्यो गाण्डीवधन्वना॥ 7-79-11(47673)
तत्कथं नु महाबाहुर्वासविः परवीरहा।
प्रतिज्ञां सफलां कुर्यादिति ते समचिन्तयन्॥ 7-79-12(47674)
कष्टं हीदं व्यवसितं पाण्डवेन महात्मना।
पुत्रशोकाभिभूतेन प्रतिज्ञा महती कृता॥ 7-79-13(47675)
भ्रातरश्चापि विक्रान्ता बहुलानि बलानि च।
धृतराष्ट्रस्य पुत्रेण सर्वतः सन्निवेशिताः॥ 7-79-14(47676)
स हत्वा सैन्धवं सङ्ख्ये पुनरेतु जयी सुखी।
`हत्वा रिपुगणं सर्वं पारयित्वा महाव्रतम्॥ 7-79-15(47677)
यद्यस्ति सुकृतं किञ्चिदस्माकं हन्तु सैन्धवम्।
जित्वा सर्वान्रिपून्पार्थस्त्रातु नोऽस्मान्महाभयात्॥ 7-79-16(47678)
एवमाशंसमानास्ते केचित्तस्थुरुपश्रुतिम्।
श्रुत्वा चेष्टं सुमनसो व्यक्तमाशंसिरे जयम्॥ 7-79-17(47679)
भविता नु कथं कृत्यमिदमित्यब्रुवञ्जनाः'।
श्वोऽहत्वा सिन्धुराजं वै धूमकेतुं प्रवेक्ष्यति॥ 7-79-18(47680)
न शक्यमनृतां कर्तुं प्रतिज्ञां विजयेन हि।
`महद्धि साहसं पार्थः कृतवाच्छोकमोहितः'॥ 7-79-19(47681)
धर्मपुत्रः कथं राजा भविष्यति मृतेऽर्जुने।
तस्मिन्हि विजयः कृत्स्नः पाण्डवेन समाहितः॥ 7-79-20(47682)
यदि नोऽस्ति कृतं किञ्चिद्यदि दत्तं हुतं यदि।
फलेन तस्य सर्वस्य सव्यसाची जयत्वरीन्॥ 7-79-21(47683)
सञ्जय उवाच। 7-79-22x(4466)
एवं कथयतां तेषां जयमाशंसतां प्रभो।
कृच्छ्रेण महता राजन्रजनी व्यत्यवर्तत॥ 7-79-22(47684)
तस्या रजन्या मध्ये तु प्रतिबुद्धो जनार्दनः।
स्मृत्वा प्रतिज्ञां पार्थस्य दारुकं प्रत्यभाषत॥ 7-79-23(47685)
अर्जुनेन प्रतिज्ञातमार्तेन हतबन्धुना।
जयद्रथं वधिष्यामि श्वोभूत इति दारुक॥ 7-79-24(47686)
तत्तु दुर्योधनः श्रुत्वा मन्त्रिभिर्मन्त्रयिष्यति।
यथा जयद्रथं पार्थो न हन्यादिति संयुगे॥ 7-79-25(47687)
अक्षौहिण्यो हि ताः सर्वा रक्षिष्यन्ति जयद्रथम्।
द्रोणश्च सहपुत्रेण सर्वास्त्रविधिपारगः॥ 7-79-26(47688)
एको वीरः सहस्राक्षो दैत्यदानवदर्पहा।
सोऽपि तं नोत्सहेताजौ हन्तुं द्रोणेन रक्षितम्॥ 7-79-27(47689)
सोऽहं श्वस्तत्करिष्यामि यथा कुन्तीसुतोऽर्जुनः।
अप्राप्तेऽस्तं दिनकरे हनिष्यति जयद्रथम्॥ 7-79-28(47690)
न हि दारा न मित्राणि ज्ञातयो न च बान्धवाः।
कश्चिदन्यः प्रियतरः कुन्तीपुत्रान्ममार्जुनात्॥ 7-79-29(47691)
अनर्जुनमिमं लोकं मुहूर्तमपि दारुक।
उदीक्षितुं न शक्तोऽहं भविता न च तत्तथा॥ 7-79-30(47692)
अहं विजित्य तान्सर्वान्सहसा सहयद्विपान्।
अर्जुनार्थे हनिष्यामि सकर्णान्ससुयोधनान्॥ 7-79-31(47693)
श्वो निरीक्षन्तु मे वीर्यं त्रयो लोका महाहवे।
धनञ्जयार्थे समरे पराक्रान्तस्य दारुक॥ 7-79-32(47694)
श्वो नरेन्द्रसहस्राणि राजपुत्रशतानि च।
साश्वद्विपरथान्याजौ विद्रविष्यामि दारुक॥ 7-79-33(47695)
श्वस्तां चक्रप्रमथितां द्रक्ष्यसे नृपवाहिनीम्।
मया क्रुद्धेन समरे पाण्डवार्थे निपातिताम्॥ 7-79-34(47696)
श्वः सदेवाः सगन्धर्वाः पिशाचोरगराक्षसाः।
ज्ञास्यन्ति लोकाः सर्वे मां सुहृदं सव्यसाचिनः॥ 7-79-35(47697)
यस्तं द्वेष्टि स मां द्वेष्टि यस्तं चानु स मामनु।
इति सङ्कल्प्यतां बुद्ध्या शरीरार्धं ममार्जुनः॥ 7-79-36(47698)
यथा त्वं मे प्रभातायामस्यां निशि रथोत्तमम्।
कल्पयित्वा यथाशास्त्रमादाय व्रज संयतः॥ 7-79-37(47699)
गदां कौमोदकीं दिव्यां शक्तिं चक्रं धनुः शरान्।
आरोप्य वै रथे सूत सर्वोपकरणानि च॥ 7-79-38(47700)
स्थानं च कल्पयित्वाऽथ रथोपस्थे ध्वजस्य मे।
वैनतेयस्य वीरस्य समरे रथशोभिनः॥ 7-79-39(47701)
छत्रं जाम्बूनदैर्जालैरर्कज्वलनसप्रभैः॥
विश्वकर्मकृतैर्दिव्यैरश्वानपि विभूषय॥ 7-79-40(47702)
बलाहकं मेघपुष्पं शैब्यं सुग्रीवमेव च।
युक्त्वा वाजिवरांस्तत्र कवची तिष्ठ दारुक॥ 7-79-41(47703)
पाञ्चजन्यस्य निर्घोषं पर्जन्यनिनदोपमम्।
श्रुत्वा च भैरवं नादमुपेयास्त्वं जवेन माम्॥ 7-79-42(47704)
एकाह्नाऽहममर्षं च सर्वदुःखानि चैव ह।
भ्रातुः पैतृष्वसेयस्य व्यपनेष्यामि दारुक॥ 7-79-43(47705)
सर्वोपायैर्यतिष्यामि यथा बीभत्सुराहवे।
पश्यतां धार्तराष्ट्राणां हनिष्यति जयद्रथम्॥ 7-79-44(47706)
यस्ययस्य च बीभत्सुर्वधे यत्नं करिष्यति।
आशंसेऽहं रणे तन्तं तत्रतत्र हनिष्यति॥ 7-79-45(47707)
दारुक उवाच। 7-79-46x(4467)
जय एव ध्रुवस्तस्य कुत एव पराजयः।
यस्य त्वं पुरुषव्याघ्र सारथ्यमुपजग्मिवान्॥ 7-79-46(47708)
एवं चैतत्करिष्यामि यथा मामनुभाषसे।
सुप्रभातामिमां रात्रिं जयाय विजयस्य हि॥ ॥ 7-79-47(47709)

इति श्रीमन्महाभारते द्रोणपर्वणि प्रतिज्ञापर्वणि एकोनाशीतितमोऽध्यायः॥ 79 ॥

Mahabharata - Drona Parva - Chapter Footnotes

5-79-3 लाजैरक्षतैः॥ 5-79-4 तस्मै त्र्यम्बकाय॥ 5-79-8 पार्थाय तादर्थ्ये चतुर्थी। तेजः प्रतापः॥ 5-79-13 महात्मना इत्यस्यानन्तरं स च राजा महावीर्यः पारयत्वर्जुनः स ताम् इत्येकमर्ध ङ. च.झ.ञ. पुस्तकेषु अधिकं वर्तते॥ 5-79-31 सहसा बलेन॥ 5-79-36 अनु अनुगतः॥ 5-79-79 एकोनाशीतितमोऽध्यायः॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.